NCERT कक्षा-10, पाठ-2, “बुद्धिर्बलवती सदा” का अभ्यासBuddhirbalawati Sada ka abhyaas complete solutions
Textbook Questions and Answers: · Lesson script
अभ्यास-कार्यम्
प्रश्नः – 1. एकपदेन उत्तरं लिखत-
(क) बुद्धिमती कुत्र व्याघ्र ददर्श?
उत्तरम् – गहनकानने ।
(ख) भामिनी कया विमुक्ता?
उत्तरम् – निजबुद्ध्या ।
(ग) सर्वदा सर्वकार्येषु का बलवती?
उत्तरम् – बुद्धिः ।
(घ) व्याघ्रः कस्मात् बिभेति?
उत्तरम् – मानुषात् ।
(ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तरम् – शृगालम् ।
प्रश्नः – 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) बुद्धिमती केन उपेता पितुर्गृह प्रति चलिता?
उत्तरम् – बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता ।
(ख) व्याघ्रः किं विचार्य पलायितः?
उत्तरम् – ‘इयम् काचित् व्याघ्रमारी’ इति विचार्य व्याघ्रः पलायितः।
(ग) लोके महतो भयात् कः मुच्यते?
उत्तरम् – लोके महतो भयात् बुद्धिमान् मुच्यते।
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
उत्तरम् – यत् मानुषादपि बिभेषि इति वदन् जम्बुकः व्याघ्रस्य उपहासं कराति।
(ङ) बुद्धिमती शृगालं किम् उक्तवती?
उत्तरम् – बुद्धिमती शृगालं उक्तवती, “त्वया मह्यं पुरा व्याघ्रत्रयं दत्तम्। विश्वास्य अद्य एकम् आनीय कथं यासि इति अधुना वद।”
प्रश्नः – 3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) तत्र (राजसिंहो) नाम राजपुत्रः वसति स्म ।
उत्तरम् – तत्र कः नाम राजपुत्रः वसति स्म?
(ख) बुद्धिमती (चपेटया) पुत्रौ प्रहृतवती ।
उत्तरम् – बुद्धिमती कया पुत्रौ प्रहृतवती?
(ग) (व्याघ्रं) दृष्ट्वा धूर्तः शृगालः अवदत् ।
उत्तरम् – कम् दृष्ट्वा धूर्तः शृगालः अवदत्?
(घ) त्वं (मानुषात्) बिभेषि ।
उत्तरम् – त्वं कस्मात् विभेषि?
(ङ) पुरा त्वया (मह्यं) व्याघ्रत्रयं दत्तम् ।
उत्तरम् – पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?
प्रश्नः – 4. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
उत्तरम् – (च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता ।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच – अधुना एकमेव व्याघ्रः विभज्य भुज्यताम् ।
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(ख) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच ।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान् ।
(ज) गलबद्ध शृगालकः व्याघ्रः पुनः पलायितः ।
प्रश्नः – 5. सन्धिं / सन्धिविच्छेदं वा कुरुत-
(क) पितुर्गृहम् – ……………….. + ……………….. ।
(ख) एकैक: – ……………….. + ……………….. ।
(ग) ……………….. – अन्यः + अपि ।
(घ) ……………….. – इति + उक्त्वा ।
(ङ) ……………….. – यत्र + आस्ते ।
उत्तराणि –
पितुर्गृहम् = पितुः + गृहम् विसर्ग सन्धि ।
एकैकः = एक + एकः स्वर सन्धि (दीर्घ सन्धि) ।
अन्योऽपि = अन्यः + अपि विसर्ग सन्धि ।
इत्युक्त्वा = इति + उक्त्वा यण् सन्धि ।
यत्रास्ते = यत्र + आस्ते स्वर सन्धि (दीर्घ सन्धि) ।
प्रश्नः – 6. अधोलिखितानां पदानाम् अर्थं कोष्ठकात् चित्वा लिखत –
(क) ददर्श – (दर्शितवान्, दृष्टवान्) ।
(ख) जगाद – (अकथयत्, अगच्छत्) ।
(ग) ययौ – (याचितवान्, गतवान्) ।
(घ) अत्तुम् – (खादितुम्, आविष्कर्तुम्) ।
(ङ) मुच्यते – (मुक्तो भवति, मग्नो भवति) ।
(च) ईक्षते – (पश्यति, इच्छति) ।
उत्तराणि –
(क ) ददर्श – दृष्टवान् ।
(ख) जगाद – अकथयत्।
(ग) ययौ – गतवान् ।
(घ) अत्तुम् – खादितुम् ।
(ङ) मुच्यते – मुक्तो भवति ।
(च) ईक्षते – पश्यति ।
प्रश्नः – 7. (अ) पाठात् चित्वा पर्यायपदं लिखत-
(क) वनम् – ……………….. ।
(ख) शृगालः – ……………….. ।
(ग) शीघ्रम् – ……………….. ।
(घ) पत्नी – ……………….. ।
(ङ) गच्छसि – ……………….. ।
उत्तराणि –
(क) वनम् – काननम् ।
(ख) शृगालः – जम्बुकः ।
(ग) शीघ्रम् – सत्वरम् ।
(घ) पत्नी – भार्या ।
(ङ) गच्छसि – यासि ।
(आ) पाठात् चित्वा विपरीतार्थकं पदं लिखत –
(क) प्रथमः – ……………….. ।
(ख) उक्त्वा – ……………….. ।
(ग) अधुना – ……………….. ।
(घ) अवेला – ……………….. ।
(ङ) बुद्धिहीना – ……………….. ।
उत्तराणि –
प्रथमः = अन्तिमः ।
उक्त्वा = मौनं भूत्वा ।
अधुना = तदा ।
अवेला = वेला ।
बुद्धिहीना = बुद्धिमती ।
Comments