Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-6, पाठ-4, “अहं प्रातः उत्तिष्ठामि” का अभ्यास
Chapter 4

NCERT कक्षा-6, पाठ-4, “अहं प्रातः उत्तिष्ठामि” का अभ्यास

Lesson video
NCERT कक्षा-6, पाठ-4, “अहं प्रातः उत्तिष्ठामि” का अभ्यास
↗ Share

पाठ-लेखः · Lesson script

वयम् अभ्यासं कुर्मः
(हम अभ्यास करते हैं)


१. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु ।
(पट्टिका से शिष्टाचार के पद चुनकर लिखें।)

कलहः गुरुवन्दनम् वृद्धसेवा अतिथिसत्कारः अहङ्कारः
मातृप्रेम पितृभक्तिः ज्येष्ठेषु आदरः कनिष्ठेषु प्रीतिः परस्परद्वेषः
बन्धुषु प्रीतिः असूया स्वाभिमानम् परोपकारः
प्राणिषु दया प्रियवचनम् हिंसा सत्यकथनम् सत्पात्रे दानम्
सर्वेषु मैत्रीभावः अहिंसा समयपालनम् स्वच्छता प्रकृतिरक्षणम्
भ्रातृषु भगिनीषु च स्नेहः

यथा- गुरुवन्दनम् .................. ........................ ........................
........................ ....................... ........................ ........................
........................ ....................... ........................ ........................
........................ ....................... ........................ ........................

उत्तराणि –
यथा- गुरुवन्दनम् वृद्धसेवा अतिथिसत्कारः
मातृप्रेम पितृभक्तिः ज्येष्ठेषु आदरः कनिष्ठेषु प्रीतिः
बन्धुषु प्रीतिः स्वाभिमानम् परोपकारः प्राणिषु दया प्रियवचनम्
सत्यकथनम् सत्पात्रे दानम् सर्वेषु मैत्रीभावः समयपालनम्
स्वच्छता प्रकृतिरक्षणम् भ्रातृषु भगिनीषु च स्नेहः

२. उदाहरणानुगुणं समयं संख्याभिः लिखन्तु ।
(उदाहरण के अनुरूप समय को संख्याओं के द्वारा लिखें।)

यथा- पादोन-सप्तवादनम् - ०६:४५
सार्ध-दशवादनम् - ..........................
दशवादनम् - .................................
सपाद-षड्वादनम् - .................................
सार्ध-चतुर्वादनम् - ..................................
पादोन-एकादशवादनम् - ..................................

उत्तराणि -
यथा- पादोन-सप्तवादनम् - ६:४५
सार्ध-दशवादनम् - १०:३०
दशवादनम् - १०:००
सपाद-षड्वादनम् - ६:१५
सार्ध-चतुर्वादनम् - ४:३०
पादोन-एकादशवादनम् - १०:४५

३. उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु ।
(उदाहरण के अनुरूप समय को अक्षरों के द्वारा लिखें।)

यथा ०६:०० - ................................ १२:०० - .....................................
०५:३० - ................................. ०६:४५ - .....................................
०९:४५ - ................................. ११:३० - .....................................

उत्तराणि –
यथा ०६:०० - षड्वादनम् १२:०० - द्वादशवादनम्
०५:३० - सार्ध पञ्चवादनम् ०६:४५ - पादोन सप्तवादनम्
०९:४५ – पादोन दशवादनम् ११:३० - सार्ध एकादशवादनम्


४. उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु ।
(उदाहरण के अनुरूप प्रश्न निर्माण करें।)

यथा - सः सार्ध-सप्तवादने अध्ययनं करोति । - सः कदा अध्ययनं करोति ?
(क) सा सपाद-नववादने विद्यालयं गच्छति । - ......................................... ?
(ख) सतीशः सार्ध-द्वादशवादने भोजनं करोति । - ......................................... ?
(ग) यानं पञ्चवादने आगच्छति । - .......................................... ?
(घ) गोपालः षड्वादने गोदोहनं करोति । - .......................................... ?
(ङ) माता दशवादने कार्यालयं गच्छति । - .......................................... ?

उत्तराणि -
यथा - सः सार्ध-सप्तवादने अध्ययनं करोति । - सः कदा अध्ययनं करोति ?
(वह 7:30 बजे पढ़ाई करता है। ) - (वह कब पढ़ाई करता है?)
(क) सा सपाद-नववादने विद्यालयं गच्छति । - सा कदा विद्यालयं गच्छति ?
(वह 9:15 बजे विद्यालय जाती है । ) - (वह कब विद्यालय जाती है?)
(ख) सतीशः सार्ध-द्वादशवादने भोजनं करोति । - सतीशः कदा भोजनं करोति ?
(सतीश 12:30 बजे भोजन करता है । ) - (सतीश कब भोजन करता है?)
(ग) यानं पञ्चवादने आगच्छति । - यानं कदा आगच्छति ?
(वाहन 5:00 बजे आता है । ) - (वाहन कब आता है?)
(घ) गोपालः षड्वादने गोदोहनं करोति । - गोपालः कदा गोदोहनं करोति ?
(गोपाल 6:00 बजे गाय का दूध निकालता है।) - (गोपाल कब गाय का दूध निकालता है?)
(ङ) माता दशवादने कार्यालयं गच्छति । - माता कदा कार्यालयं गच्छति ?
(माता 10:00 बजे कार्यालय जाती है । ) - (माता कब कार्यालय जाती है?)


५. स्वस्य दिनचर्यां सरलवाक्यैः लिखन्तु ।
(अपनी दिनचर्या को सरल वाक्यों के द्वारा लिखें।)
यथा - अहं प्रातः षड्वादने उत्तिष्ठामि । ................................................. ।
(मैं प्रात 6:00 बजे उठता हूँ।)
................................................. । ................................................. ।
................................................. । ................................................. ।
................................................. । ................................................. ।
................................................. । ................................................. ।
................................................. । ................................................. ।

६. वाक्येषु शिष्टाचारपदं योजयन्तु ।
(वाक्यों में शिष्टाचार के पदों को जोड़ें।)
नियमपालनं सेवां मैत्रीभावः साहाय्यं सत्कारं दयाभावः
यथा - युवकः मातापित्रोः सेवां करोति ।
(क) सा दुर्बलानां ......................... करोति ।
(ख) सर्वेषु प्राणिषु ........................... भवतु ।
(ग) सर्वे छात्राः पाठशालायाः ......................... कुर्वन्तु ।
(घ) वयं सर्वे अतिथीनां .................................. कुर्मः ।
(ङ) परस्परं छात्रेषु ................................... भवतु ।

उत्तराणि -
यथा - युवकः मातापित्रोः सेवां करोति ।
(क) सा दुर्बलानां साहाय्यं करोति ।
(ख) सर्वेषु प्राणिषु दयाभावः भवतु ।
(ग) सर्वे छात्रा: पाठशालायाः नियमपालनं कुर्वन्तु ।
(घ) वयं सर्वे अतिथीनां सत्कारं कुर्मः ।
(ङ) परस्परं छात्रेषु मैत्रीभावः भवतु ।
▶ Videos in this lesson
1
Add videos via ACF
🔒 This content is protected.