Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-6, पाठ-7, “अतिथिदेवो भव” का अभ्यास
Chapter 7

NCERT कक्षा-6, पाठ-7, “अतिथिदेवो भव” का अभ्यास

Lesson video
NCERT कक्षा-6, पाठ-7, “अतिथिदेवो भव” का अभ्यास
↗ Share

पाठ-लेखः · Lesson script

वयम् अभ्यासं कुर्मः

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(पाठ के आधार पर नीचे लिखे गए प्रश्नों के उत्तर एक पद में लिखें ।)
(क) राधिका कथं चलति स्म ?
(ख) गृहे कति अतिथयः सन्ति ?
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
(घ) मार्जार्याः कति शावकाः ?
(ङ) राधिका मार्जार्यै किं ददाति ?
(च) चित्रवर्णः कः अस्ति ?

उत्तराणि :-
(क) राधिका कथं चलति स्म ? (राधिका कैसे चलती थी?)
उत्तरम् :- राधिका कूर्दमाना चलति स्म । (राधिका कूदते हुए चलती थी ।)
(ख) गृहे कति अतिथयः सन्ति? (घर में कितने अतिथि हैं?)
उत्तरम् :- गृहे पञ्च अतिथयः सन्ति । (घर में पांच अतिथि हैं ।)
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति? (किसको देखकर बिल्ली के बच्चे नहीं डरते हैं?)
उत्तरम् :- राधिकां दृष्ट्वा शावकाः भीताः न भवन्ति । (राधिका को देखकर बच्चे नहीं डरते हैं ।)
(घ) मार्जार्याः कति शावकाः ? (बिल्ली के कितने बच्चे हैं?)
उत्तरम् :- मार्जार्याः चत्वारः शावकाः । (बिल्ली के चार बच्चे हैं ।)
(ङ) राधिका मार्जार्यै किं ददाति ? (राधिका बिल्ली के लिए क्या देती है?)
उत्तरम् :- राधिका मार्जार्यै क्षीरं ददाति । (राधिका बिल्ली के लिए दूध देती है ।)
(च) चित्रवर्णः कः अस्ति ? (चितकबरा कौन है?)
उत्तरम् :- चित्रवर्णः शबलः अस्ति । (चितकबरा शबल है ।)

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(पाठ के आधार पर नीचे लिखे प्रश्नों के उत्तर पूर्ण वाक्य में लिखें।)
(क) मार्जारीशावकानां नामानि कानि ?
(ख) राधिका मार्जारीशावकान् किं पाठयति ?
(ग) विशिष्टाः अतिथयः के ?
(घ) पितामही राधिकां किं वदति ?
(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
(च) मार्जार्याः शावकाः कीदृशाः सन्ति ?

उत्तराणि :-
(क) मार्जारीशावकानां नामानि कानि ? (बिल्ली के बच्चों के नाम क्या हैं?)
उत्तरम् :- मार्जारीशावकानां नामानि - तन्वी, मृद्वी, शबलः, भीमः च इति सन्ति । (बिल्ली के बच्चों के नाम तन्वी, मृद्वी, सबल और भीम हैं ।
(ख) राधिका मार्जारीशावकान् किं पाठयति ? (राधिका बिल्ली के बच्चों को क्या पढा़ती है ?)
उत्तरम् :- राधिका मार्जारीशावकान् ‘अतिथिदेवो भव’ इति पाठयति । (राधिका बिल्ली के बच्चों को 'अतिथि देवता हैं' यह पढ़ाती है ।)
(ग) विशिष्टाः अतिथयः के ? (विशिष्ट अतिथि कौन हैं ?)
उत्तरम् :- मार्जार्याः चत्वारः शावकाः विशिष्टाः अतिथयः । (बिल्ली के चार बच्चे विशिष्ट अतिथि हैं।)
(घ) पितामही राधिकां किं वदति ? (दादी राधिका को क्या बोलती है ?)
उत्तरम् :- पितामही राधिकां वदति - राधिके ! अतिथयः कदा आगच्छन्ति इति न जानीमः । (दादी राधिका को बोलती है - हे राधिका ! अतिथि कब आते हैं ? यह हम नहीं जानते हैं।)
(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ? (बिल्ली कब राधिका के पीछे आती है?)
उत्तरम् :- यदा शावकानां समीपं राधिका गच्छति चेत् मन्दं मन्दं पृष्ठतः आगच्छति । (जब बच्चों के समीप राधिका जाती है, तब बिल्ली धीरे-धीरे पीछे-पीछे आती है।)
(च) मार्जार्याः शावकाः कीदृशाः सन्ति ? (बिल्ली के बच्चे कैसे हैं ?)
उत्तरम् :- तन्वी आकृत्या सुन्दरी, मृद्वी स्पर्शेन अतीव कोमला, शबलः चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः अस्ति । (तन्वी आकृति से सुंदर, मृद्वी स्पर्श से बहुत कोमल है । शबल चितकबरा अर्थात् रंग-बिरंगा है और भीम थोड़ा सा मोटा है ।)

३. अधोलिखितानां वाक्यानां प्रश्न-सूचक-वाक्यानि लिखन्तु ।
यथा- लेखनी अत्र अस्ति । लेखनी कुत्र अस्ति?
(क) वृक्षः तत्र अस्ति । ...... ?
(ख) देवालयः अन्यत्र अस्ति । ....... ?
(ग) वायुः सर्वत्र अस्ति । ....... ?
(घ) बालकाः एकत्र तिष्ठन्ति । ........ ?
(ङ) माता अत्र अस्ति । ........ ?

उत्तराणि :-
यथा- लेखनी अत्र अस्ति । लेखनी कुत्र अस्ति ?
( लेखनी यहाँ है ।) (लेखनी कहाँ है ?)
(क) वृक्षः तत्र अस्ति । वृक्षः कुत्र अस्ति ?
( वृक्ष यहाँ है ।) (वृक्ष कहाँ है ?)
(ख) देवालयः अन्यत्र अस्ति । देवालयः कुत्र अस्ति ?
( देवालय दुसरे स्थान पर है ।) (देवालय कहाँ है ?)
(ग) वायुः सर्वत्र अस्ति । वायुः कुत्र अस्ति ?
( वायु सब जगह है ।) (वायु कहाँ है ?)
(घ) बालकाः एकत्र तिष्ठन्ति । बालकाः कुत्र तिष्ठन्ति ?
( सभी बालक एक स्थान पर बैठे हैं ।) (सभी बालक कहाँ पर बैठे हैं ?)
(ङ) माता अत्र अस्ति । माता कुत्र अस्ति ?
( माता यहाँ है ।) (माता कहाँ है ?)


४. उत्पीठिकायां किम् अस्ति? किं नास्ति ? इति चित्रं दृष्ट्वा लिखन्तु ।
यथा - उत्पीठिकायां पुस्तकम् अस्ति । (मेज पर पुस्तक है ।)
उत्पीठिकायां घटी नास्ति । (मेज पर घडी नहीं है ।)
(पुस्तकम्, घटी, लेखनी, चषकः, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुकः)

उत्तराणि :-
उत्पीठिकायां कूपी अस्ति ।
उत्पीठिकायां लेखनी नास्ति ।
उत्पीठिकायां स्यूतः अस्ति ।
उत्पीठिकायां चषकः नास्ति ।
उत्पीठिकायां सङ्गणकम् अस्ति ।
उत्पीठिकायां वृक्षः नास्ति ।
उत्पीठिकायां कन्दुकः अस्ति ।
उत्पीठिकायां फलं नास्ति ।


५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।
(रेखाचित्र को देखकर उदाहरण के अनुसार वाक्यों को लिखें ।)
यथा - मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
(जैसे :- बिल्ली कहाँ है ? बिल्ली यहाँ है ?)
सेवकः कुत्र अस्ति ? सेवकः तत्र अस्ति ।
(सेवक कहाँ है ? सेवक वहाँ है ।)

अत्र
छात्रः, मार्जारः, काकः,
दीपकः, घटः, सुधाखण्डः,
शिक्षकः, बालिका, लेखनी,
माला
कुत्र ?

सर्वत्र
प्रकाशः, परमेश्वरः, ज्ञानम्,
आकाशः, अणवः, प्रकृतिः,
पुष्पाणि, वायुः, प्रेम


तत्र
सेवकः, विद्यालयः, गायकः,
घटी, फलम्,
गृहम्, वाटिका, हरिणः
अजः, मूषकः

एकत्र
बालकः, मयूरः, मित्रम्,
पुत्रः, महिला, सेविका,
चटका, दोला

उत्तराणि :-
छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति ।
मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
काकः कुत्र अस्ति ? काकः अत्र अस्ति ।
दीपकः कुत्र अस्ति ? दीपकः अत्र अस्ति ।
घटः कुत्र अस्ति ? घटः अत्र अस्ति ।
सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति ।
शिक्षकः कुत्र अस्ति ? शिक्षकः अत्र अस्ति ।
बालिका कुत्र अस्ति ? बालिका अत्र अस्ति ।
लेखनी कुत्र अस्ति ? लेखनी अत्र अस्ति ।
माला कुत्र अस्ति ? माला अत्र अस्ति ।

प्रकाशः कुत्र अस्ति ? प्रकाशः सर्वत्र अस्ति ।
परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति ।
ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति ।
आकाशः कुत्र अस्ति ? आकाशः सर्वत्र अस्ति ।
अणवः कुत्र अस्ति ? अणवः सर्वत्र अस्ति ।
प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति ।
पुष्पाणि कुत्र अस्ति ? पुष्पाणि सर्वत्र अस्ति ।
वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति ।
प्रेम कुत्र अस्ति ? प्रेम सर्वत्र अस्ति ।

सेवकः कुत्र अस्ति ? सेवकः तत्र अस्ति ।
विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति ।
गायकः कुत्र अस्ति ? गायकः तत्र अस्ति ।
घटी कुत्र अस्ति ? घटी तत्र अस्ति ।
फलं कुत्र अस्ति ? फलं तत्र अस्ति ।
गृहं कुत्र अस्ति ? गृहं तत्र अस्ति ।
वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति ।
हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति ।
अजः कुत्र अस्ति ? अजः तत्र अस्ति ।
मूषकः कुत्र अस्ति ? मूषकः तत्र अस्ति ।

बालकः कुत्र अस्ति ? बालकः एकत्र अस्ति ।
मयूरः कुत्र अस्ति ? मयूरः एकत्र अस्ति ।
मित्रं कुत्र अस्ति ? मित्रम् एकत्र अस्ति ।
पुत्रः कुत्र अस्ति ? पुत्रः एकत्र अस्ति ।
महिला कुत्र अस्ति ? महिला एकत्र अस्ति ।
सेविका कुत्र अस्ति ? सेविका एकत्र अस्ति ।
चटका कुत्र अस्ति ? चटका एकत्र अस्ति ।
दोला कुत्र अस्ति ? दोला एकत्र अस्ति ।

६. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।
(रसोईघर में क्या-क्या है ? इस पर पांच वाक्यों को लिखें ।)
यथा- भोजनशालायां पाचकः अस्ति ।
(जैसे :- रसोईघर में रसोईया है ।)
(सूचकपदानि - पाचकः, पात्रम्, तण्डुलाः, शाकानि, अग्नि, जलम्)
(सांकेतिक पद :- रसोईया, बर्तन, चावल, सब्जी, अग्नि, जल)

उत्तराणि :-
1. भोजनशालायां पात्रम् अस्ति ।
( रसोईघर में बर्तन है।)
2. भोजनशालायां तण्डुलाः सन्ति ।
( रसोईघर में चावल हैं ।)
3. भोजनशालायां शाकानि सन्ति ।
( रसोईघर में सब्जियां हैं ।)
4. भोजनशालायां अग्नि अस्ति ।
( रसोईघर में अग्नि है ।)
5. भोजनशालायां जलम् अस्ति ।
( रसोईघर में जल है ।)

७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ।
(नीचे लिखे वाक्यों से अव्यय पदों को चुनकर लिखें।)
(क) अमितः गृहात् बहिः गच्छति । ............
(ख) एकः वानरः वृक्षस्य उपरि तिष्ठति । ............
(ग) सः फलानि अधः क्षिपति । ............
(घ) तत्र एकः बिडालः अस्ति । ............
(ङ) बिडालः गृहस्य अन्तः प्रविशति । ............

उत्तराणि :-
(क) अमितः गृहात् बहिः गच्छति । बहिः
(ख) एकः वानरः वृक्षस्य उपरि तिष्ठति । उपरि
(ग) सः फलानि अधः क्षिपति । अधः
(घ) तत्र एकः बिडालः अस्ति । तत्र
(ङ) बिडालः गृहस्य अन्तः प्रविशति । अन्तः


८. उदाहरणानुसार कः कुत्र अस्ति? कुत्र नास्ति ? इति लिखन्तु ।
यथा-
सिंहः वने कार्यालये - सिंहः वने अस्ति । कार्यालये नास्ति ।
छात्रः आकाश विद्यालये - छात्रः आकाशे नास्ति । छात्रः विद्यालये अस्ति ।
मत्स्यः समुद्रे वृक्षे
मधुरता लड्डुके कषाये
उष्णता सूर्ये चन्द्रे
वानरः नद्याम् वृक्षे
नौका जले पर्वते
अज्ञानम् पण्डिते मूर्खे
चन्द्रः अमावस्यायाम् पूर्णिमायाम्
अवकाशः सोमवासरे रविवासरे

उत्तराणि :-
यथा-
सिंहः वने कार्यालये - सिंहः वने अस्ति । कार्यालये नास्ति ।
छात्रः आकाश विद्यालये - छात्रः आकाशे नास्ति। छात्रः विद्यालये अस्ति ।
मत्स्यः समुद्रे वृक्षे - मत्स्यः समुद्रे अस्ति । मत्स्यः वृक्षे नास्ति ।
मधुरता लड्डुके कषाये - मधुरता लड्डुके अस्ति । मधुरता कषाये नास्ति ।
उष्णता सूर्ये चन्द्रे - उष्णता सूर्ये अस्ति । उष्णता चन्द्रे नास्ति ।
वानरः नद्याम् वृक्षे - वानरः वृक्षे अस्ति । वानरः नद्याम् नास्ति ।
नौका जले पर्वते - नौका जले अस्ति । नौका पर्वते नास्ति ।
अज्ञानम् पण्डिते मूर्खे - अज्ञानम् पण्डिते अस्ति । अज्ञानम् मूर्खे नास्ति ।
चन्द्रः अमावस्यायाम् पूर्णिमायाम् - चन्द्रः पूर्णिमायाम् अस्ति । चन्द्रः अमावस्यायाम् नास्ति ।
अवकाशः सोमवासरे रविवासरे - अवकाशः रविवासरे अस्ति । अवकाशः सोमवासरे नास्ति ।
▶ Videos in this lesson
1
Add videos via ACF
🔒 This content is protected.