Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-6, पाठ-10, “त्वं आपणं गच्छ” का अभ्यास
Chapter 10

NCERT कक्षा-6, पाठ-10, “त्वं आपणं गच्छ” का अभ्यास

Lesson video
NCERT कक्षा-6, पाठ-10, “त्वं आपणं गच्छ” का अभ्यास
↗ Share

पाठ-लेखः · Lesson script

वयम् अभ्यासं कुर्मः (हम अभ्यास करते हैं)

१. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु ।
(पहले पेज के कोष्ठकों में दिए रूपों को देखकर रिक्त स्थानों को पूरा करें ।)

लिखतु लिखताम् ......
........ लिखतम् लिखत
लिखानि लिखाव ........
........ क्रीडताम् ........
........ क्रीडतम् ........
क्रीडानि क्रीडाव क्रीडाम

उत्तराणि :-
लिखतु लिखताम् लिखन्तु
लिख लिखतम् लिखत
लिखानि लिखाव लिखाम
क्रीडतु क्रीडताम् क्रीडन्तु
क्रीड क्रीडतम् क्रीडत
क्रीडानि क्रीडाव क्रीडाम

२. निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।
(निम्नलिखित सुभाषितों में लोट् लकार की क्रियापदों को चुनकर लिखें ।)

(क) काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ॥
........... ...........

मेघाः उचिते समये वर्षन्तु । तेन भूमिः सस्यैः समृद्धा पूर्णा च भवतु । एषः देशः शान्तः भवतु । सर्वे सज्जनाः भयं विना जीवनं यापयन्तु ।
(एवम् परमेश्वरं प्रति प्रार्थना अस्ति)

उत्तराणि - वर्षन्तु, भवतु, यापयन्तु

(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥
........... ...........
सर्वे जनाः सुखेन तिष्ठन्तु । सर्वे रोगरहिताः भवन्तु। सर्वे शुभम् एव पश्यन्तु । कस्यापि कृते दुःखस्य अनुभवः न भवतु ।
उत्तराणि - तिष्ठन्तु, भवन्तु, पश्यन्तु, भवतु

(ग) इमा आपः शिवाः सन्तु शुभाः स्वच्छाश्च निर्मलाः ।
पावनाः शीतलाः सन्तु पूताः सूर्यस्य रश्मिभिः ॥
.............. ..............
जलं सर्वेषां कृते मङ्गलमयं मालिन्यरहितं शुद्धं च भवतु । जलं पवित्रं शीतलं च भवतु । जलं सूर्यस्य प्रकाशस्य स्पर्शेन पवित्रं भवतु ।
उत्तराणि :- भवतु, सन्तु

(घ) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥
.............. .............. ..............
.............. ..............

नीतिकाराः प्रशंसन्तु अथवा निन्दां कुर्वन्तु । धनस्य लाभः भवतु अथवा धनहानिः भवतु । मरणं झटिति भवतु अथवा विलम्बेन भवतु। न्याय्यात् मार्गात् धीराः न विचलन्ति तत्रैव ते स्थिररूपेण तिष्ठन्ति ।
उत्तराणि :- निन्दन्तु, स्तुवन्तु, प्रशंसन्तु, कुर्वन्तु, भवतु, समाविशतु, गच्छतु ।

३. उदाहरणानुगुणं लोट्लकारस्य रूपाणि लिखन्तु ।
(उदहारण के अनुसार लोट् लकार के रुपों को लिखें ।)
यथा - पठति - पठतु
क्रीडामि - .................
हसति - .................
नृत्यति - .................
खादति - .................
पश्यसि - .................
नयसि - .................
गच्छामि - .................
उत्तराणि :-
यथा - पठति - पठतु
क्रीडामि - क्रीडानि
हसति - हसतु
नृत्यति - नृत्यतु
खादति - खादतु
पश्यसि - पश्यतु
नयसि - नयतु
गच्छामि - गच्छतु



४. उदाहरणानुगुणं बहुवचनस्य रूपाणि लिखन्तु ।
(उदहारण के अनुसार बहुवचन के रुपों को लिखें ।)
यथा - उत्तिष्ठतु - उत्तिष्ठन्तु
आगच्छतु - .................
उपविशतु - .................
गच्छतु - .................
खादतु - .................
पठतु - .................
पततु - .................
उत्तराणि :-
यथा - उत्तिष्ठतु - उत्तिष्ठन्तु
आगच्छतु - आगच्छन्तु
उपविशतु - उपविशन्तु
गच्छतु - गच्छन्तु
खादतु - खादन्तु
पठतु - पठन्तु
पततु - पतन्तु

५. विद्यालयस्य वार्षिकोत्सवे के-के किं-किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु ।
यथा - दशमकक्षायाः छात्राः वेदिकाम् अलङ्कुर्वन्ति ।
दशमकक्षायाः छात्राः वेदिकाम् अलङ्कुर्वन्तु ।

(क) प्रधानाध्यापकः वार्षिकं विवरणं पठति ।
(ख) बालिकाः नृत्यन्ति ।
(ग) यूयम् आसन्दान् स्थापयथ ।
(घ) छात्रनायकः स्वागतं करोति ।
(ङ) मम मित्रं धन्यवादं निवेदयति ।
(च) संस्कृत-शिक्षिका वेदिकां सञ्चालयति ।
(छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति ।
उत्तराणि :-
(क) प्रधानाध्यापकः वार्षिकं विवरणं पठति ।
प्रधानाध्यापकः वार्षिकं विवरणं पठतु ।
(ख) बालिकाः नृत्यन्ति ।
बालिकाः नृत्यन्तु ।
(ग) यूयम् आसन्दान् स्थापयथ ।
यूयम् आसन्दान् स्थापयत ।
(घ) छात्रनायकः स्वागतं करोति।
छात्रनायकः स्वागतं करोतु ।
(ङ) मम मित्रं धन्यवादं निवेदयति ।
मम मित्रं धन्यवादं निवेदयतु ।
(च) संस्कृत-शिक्षिका वेदिकां सञ्चालयति ।
संस्कृत-शिक्षिका वेदिकां सञ्चालयतु ।
(छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति ।
कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्तु ।

६. परिच्छेदे पट्टिकातः उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु ।
(अनुच्छेद में पट्टिका से उचित क्रिया रूपों के द्वारा रिक्त स्थानों को भरें ।)
शृण्वन्तु गच्छन्तु लिखन्तु पठन्तु पृच्छन्तु कुर्वन्तु वदन्तु
उत्तिष्ठन्तु उपविशन्तु अभिवादयन्तु
यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे ........... । उपचारवाक्येन तम् .............. । यदा सः वदति तदा एव सर्वे ............ । तस्य सूचनानुसारं पाठं ............ । गृहपाठं ............. । परस्परं वार्तालापं न ............... । प्रश्नस्य उत्तरं .............. । संशयं ........... । तस्य उपदेशम् .............. । बहिः मा ............... ।
उत्तराणि :-
यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु । उपचारवाक्येन तम् अभिवादयन्तु । यदा सः वदति तदा एव सर्वे उपविशन्तु । तस्य सूचनानुसारं पाठं पठन्तु । गृहपाठं लिखन्तु । परस्परं वार्तालापं न कुर्वन्तु । प्रश्नस्य उत्तरं वदन्तु । संशयं पृच्छन्तु । तस्य उपदेशम् शृण्वन्तु । बहिः मा गच्छन्तु ।

७. मार्गे सूचनादीपाः फलकानि च भवन्ति । तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानि रिक्तस्थानेषु लिखन्तु ।
तिष्ठ प्रतीक्षस्व वामतः गच्छ दक्षिणतः गच्छ
यानं मा स्थापय पदयात्रिकाः ! गच्छ अग्रे विद्यालयः
उत्तराणि :-
1. वामतः गच्छ 2. दक्षिणतः गच्छ 3. अग्रे विद्यालयः 4. पदयात्रिकाः !
5. तिष्ठ 6. प्रतीक्षस्व 7. गच्छ 8. यानं मा स्थापय

८. उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु ।
(उदाहरण के अनुसार क्रियापद के लोट् लकार के रूपों से वाक्यों को पूरा करें ।)
यथा - छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु । (उत् + तिष्ठ्)
(क) अम्ब ! अहं क्रीडार्थं ............ । (गच्छ्)
(ख) आगच्छन्तु, वयं प्रार्थनागीतं ............ । (गाय्)
(ग) ज्वरः अस्ति । पुत्र! वृष्टौ न ............ । (क्रीड्)
(घ) लते ! भवती मम उपनेत्रम् ............ । (आ + नय्)
(ङ) आर्ये ! अहम् अन्तः ............ । (प्र + विश्)
(च) अहं पृच्छामि त्वम् उत्तरं ............ । (वद्)
(छ) यूयं शीघ्रं नगरम् ............. । (आ + गच्छ्)
(ज) तात ! वयं कदा चलचित्रं ............ ? (पश्य्)

उत्तराणि :-
यथा - छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु । (उत् + तिष्ठ्)
(क) अम्ब ! अहं क्रीडार्थं गच्छानि । (गच्छ्)
(ख) आगच्छन्तु, वयं प्रार्थनागीतं गायाम। (गाय्)
(ग) ज्वरः अस्ति । पुत्र ! वृष्टौ न क्रीड । (क्रीड्)
(घ) लते ! भवती मम उपनेत्रम् आनयतु । (आ + नय्)
(ङ) आर्ये ! अहम् अन्तः प्रविशानि । (प्र + विश्)
(च) अहं पृच्छामि त्वम् उत्तरं वदतु । (वद्)
(छ) यूयं शीघ्रं नगरम् आगच्छत । (आ + गच्छ्)
(ज) तात ! वयं कदा चलचित्रं पश्याम ? (पश्य्)

९. चिह्नानि ( ? ! । , ) भावानुसारं वाक्ये योजयन्तु ।
(भाव के अनुसार वाक्य में उपरोक्त चिन्हों को जोड़ें ।)
यथा - राकेश ! कुत्र असि ? अत्र आगच्छ ।
(क) पुत्र किं करोषि
(ख) कः श्लोकं वदति
(ग) भवान् तत्र तिष्ठतु
(घ) आचार्यः कदा आगच्छति
(ङ) अहो रमणीयः पर्वतः
उत्तराणि :-
यथा - राकेश ! कुत्र असि ? अत्र आगच्छ ।
(क) पुत्र ! किं करोषि ?
(ख) कः श्लोकं वदति ?
(ग) भवान् , तत्र तिष्ठतु ।
(घ) आचार्यः कदा आगच्छति ?
(ङ) अहो ! रमणीयः पर्वतः ।
▶ Videos in this lesson
1
Add videos via ACF
🔒 This content is protected.