Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-10, पाठ-3, “शिशुलालनम्” का अभ्यास
Chapter 3

NCERT कक्षा-10, पाठ-3, “शिशुलालनम्” का अभ्यास

Lesson video
NCERT कक्षा-10, पाठ-3, “शिशुलालनम्” का अभ्यास
↗ Share

Textbook Questions and Answers: · Lesson script

अभ्यास-कार्यम्

प्रश्नः – 1. एकपदेन उत्तरं लिखत —

(क) कुशलवौ कम् उपसृत्य प्रणमतः?
उत्तरम् – रामम्।

(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति?
उत्तरम् – देवीति।

(ग) वयोऽनुरोधात् कः लालनीयः भवति?
उत्तरम् – शिशुः।

(घ) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरुः अस्ति?
उत्तरम् – उपनयनोपदेशेन।

(ङ) कुत्र लवकुशयोः पितुः नाम न व्यवह्रियते?
उत्तरम् – तपोवने।

प्रश्नः – 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत—

(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
उत्तरम् – रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।

(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
उत्तरम् – रामः लवकुशौ अङ्के तथा सिंहासने उपवेशयितुं कथयति।

(ग) बालभावात् हिमकरः कुत्र विराजते?
उत्तरम् – बालभावात् हिमकरः पशुपतेः मस्तके विराजते।

(घ) कुशलवयोः वंशस्य कर्ता कः?
उत्तरम् – कुशलवयोः वंशस्य कर्ता सहस्रदीधितिः (सूर्यः) अस्ति।

(ङ) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
उत्तरम् – कुशलवयोः मातरं वाल्मीकिः ‘वधूः’ इति नाम्ना आह्वयति।

प्रश्नः – 3. रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसारं निर्दिशत।

यथा – राजन्! अलम् अतिदाक्षिण्येन। तृतीयाविभक्तिः ‘अलम्’ योगे
“अलम्” इति योगात् निषेधार्थे तृतीयाविभक्तिः भवति ।

(क) रामः लवकुशौ आसनार्धम् उपवेशयति। द्वितीयाविभक्तिः ‘उप’ उपसर्गयोगे
अत्र ‘उप’ उपसर्गयोगे “आसनार्धम्” इति पदे द्वितीयाविभक्तिः प्रयुक्ता अस्ति।

(ख) धिङ् माम् एवम्भूतम्। द्वितीयाविभक्तिः धिक् योगे
“धिक्” योगे द्वितीयाविभक्तिः भवति।

(ग) अङ्कव्यवहितम् अध्यास्यतां सिंहासनम्। द्वितीयाविभक्तिः ‘अधि’ उपसर्गयोगे
‘अधि’ उपसर्गयोगे द्वितीयाविभक्तिः भवति ।

(घ) अलम् अतिविस्तरेण। तृतीयाविभक्तिः ‘अलम्’ योगे
“अलम्” इति योगात् निषेधार्थे तृतीयाविभक्तिः भवति ।

(ङ) रामम् उपसृत्य प्रणम्य च। द्वितीयाविभक्तिः ‘उप’ उपसर्गयोगे
अत्र ‘उप’ उपसर्गयोगे “रामम्” इति पदे द्वितीयाविभक्तिः प्रयुक्ता अस्ति।

प्रश्नः – 4. यथानिर्देशम् उत्तरत –

(क) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् – अहम्।

(ख) ‘किं कुपिता एवं भणति उत प्रकृतिस्था’—अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।
उत्तरम् – कुपिता।

(ग) विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पदं कस्मै प्रयुक्तम्?
उत्तरम् – रामाय।

(घ) ‘तस्मादङ्क-व्यवहितम् अध्यास्यतां सिंहासनम्।’ अत्र क्रियापदं किम्?
उत्तरम् – अध्यास्यताम्।

(ङ) ‘वयसस्तु न किञ्चिदन्तरम्।’ अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तरम् – वयसः।

प्रश्नः – 5. अधोलिखितानि वाक्यानि कः कं प्रति कथयति?

…………………………………………………………………..कः ……….. कम् प्रति

(क) सव्यवधानं न चारित्र्यलोपाय। रामः कुशलवौ प्रति।
(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था? विदूषकः कुशं प्रति।
(ग) जानाम्यहं तस्य नामधेयम्। कुशः रामं प्रति।
(घ) तस्याः द्वे नाम्नी। लवः विदूषकं प्रति।
(ङ) वयस्य! अपूर्वं खलु नामधेयम्। रामः विदूषकं प्रति।

प्रश्नः – 6. (अ) मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत –

(क) हिमकरः = शशिः, निशाकरः ।
(ख) सम्प्रति = इदानीम्, अधुना ।
(ग) सदाचारः = शिष्टाचारः, सदाचारः ।
(घ) पशुपतिः = शिवः, चन्द्रशेखरः ।
(ङ) तनयः = सुतः, पुत्रः ।
(च) सहस्रदीधितिः = भानुः, सूर्यः ।

प्रश्नः – 6. (आ) विशेषण–विशेष्यपदानि योजयत –

………………….. विशेषणपदम् विशेष्यपदम्

यथा श्लाघ्या कथा
(1) उदात्तरम्यः समुदाचारः
(2) अतिदीर्घः प्रवासः
(3) समरूपः कुटुम्बवृत्तान्तः
(4) हृदयग्राही स्पर्शः
(5) कुमारयोः कुशलवयोः

प्रश्नः – 7. (क) अधोलिखितपदेषु सन्धिं कुरुत –

(क) द्वयोः + अपि = द्वयोरपि – विसर्ग सन्धिः
(ख) द्वौ + अपि = द्वावपि – यण् सन्धिः
(ग) कः + अत्र = कोऽत्र – विसर्ग सन्धिः
(घ) अनभिज्ञः + अहम् = अनभिज्ञोऽहम् – विसर्ग सन्धिः
(ङ) इति + आत्मानम् = इत्यात्मानम् – यण् सन्धिः

प्रश्नः – 7. (ख) अधोलिखितपदेषु विच्छेदं कुरुत –

(क) अहमप्येतयोः = अहम् + अपि + एतयोः – यण् सन्धिः
(ख) वयोऽनुरोधात् = वयः + अनुरोधात् – विसर्ग सन्धिः
(ग) समानाभिजनौ = समान + अभिजनौ – दीर्घ सन्धिः
(घ) खल्वेतत् = खलु + एतत् – यण् सन्धिः

▶ Videos in this lesson
1
Add videos via ACF

Comments

Leave a comment

Your email address will not be published. Required fields are marked *

🔒 This content is protected.