Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-10, पाठ-4, “जननी तुल्यवत्सला” का अभ्यास
Chapter 4

NCERT कक्षा-10, पाठ-4, “जननी तुल्यवत्सला” का अभ्यास

Lesson video
NCERT कक्षा-10, पाठ-4, “जननी तुल्यवत्सला” का अभ्यास
↗ Share

Textbook Questions and Answers: · Lesson script

अभ्यास-कार्यम्

प्रश्नः – 1. एकपदेन उत्तरं लिखत –

(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत्?
उत्तरम् – कृषकः।

(ख) वृषभः कुत्र पपात?
उत्तरम् – क्षेत्रे।

(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तरम् – मातुः।

(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तरम् – बलीवर्दयोः।

(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तरम् – प्रवर्षः।

प्रश्नः – 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) कृषकः किं करोति स्म?
उत्तरम् – कृषकः क्षेत्रं कर्षति स्म।

(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
उत्तरम् – भूमौ पतितं स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।

(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
उत्तरम् – सुरभिः इन्द्रस्य प्रश्नस्य उत्तरं ददाति—“भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।”

(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तरम् – मातुः अधिका कृपा दीने पुत्रे भवति।

(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम् – इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्षम् अकरोत्।

(च) जननी कीदृशी भवति?
उत्तरम् – जननी सर्वेषु अपत्येषु तुल्यवत्सला भवति, परन्तु दीने पुत्रे तस्याः कृपा अधिका भवति।

(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तरम् – अस्मिन् पाठे सुरभेः इन्द्रस्य च संवादः विद्यते।

प्रश्नः – 3. ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत।

‘क’ स्तम्भ ‘ख’ स्तम्भ
(क) कृच्छ्रेण (i) वृषभः
(ख) चक्षुभ्याम् (ii) वासवः
(ग) जवेन (iii) नेत्राभ्याम्
(घ) इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम् (vi) काठिन्येन
(छ) बलीवर्दः (vii) सुताः

उत्तराणि –

‘क’ स्तम्भ ‘ख’ स्तम्भ
(क) कृच्छ्रेण (vi) काठिन्येन
(ख) चक्षुभ्याम् (iii) नेत्राभ्याम्
(ग) जवेन (v) द्रुतगत्या
(घ) इन्द्रः (ii) वासवः
(ङ) पुत्राः (vii) सुताः
(च) शीघ्रम् (iv) अचिरम्
(छ) बलीवर्दः (i) वृषभः

प्रश्नः – 4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत –

(क) सः (कृच्छ्रेण) भारम् उद्वहति।
उत्तरम् – सः केन भारम् उद्वहति?

(ख) (सुराधिपः) ताम् अपृच्छत्।
उत्तरम् – कः ताम् अपृच्छत्?

(ग) अयम् (अन्येभ्यः) दुर्बलः।
उत्तरम् – अयं केभ्यः दुर्बलः?

(घ) (धेनूनां) माता सुरभिः आसीत्।
उत्तरम् – कासां माता सुरभिः आसीत्?

(ङ) (सहस्राधिकेषु) पुत्रेषु सत्स्वपि सा दुःखी आसीत्।
उत्तरम् – कतिषु पुत्रेषु सत्स्वपि सा दुःखी आसीत्?

प्रश्नः – 5. रेखाङ्कितपदे यथास्थानं सन्धिं विच्छेदं वा कुरुत –

(क) कृषकः क्षेत्रकर्षणं कुर्वन्नासीत्।
उत्तरम् – कृषकः क्षेत्रकर्षणं कुर्वन् + आसीत् ।

(ख) तयोरेकः वृषभः दुर्बलः आसीत्।
उत्तरम् – तयोः + एकः वृषभः दुर्बलः आसीत् ।

(ग) तथापि वृषः नोत्थितः।
उत्तरम् – तथापि वृषः न + उत्थितः ।

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तरम् – सत्सु + अपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?

(ङ) तथाप्यहमेतस्मिन् स्नेहम् अनुभवामि।
उत्तरम् – तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।

(च) मे बहून्यपत्यानि सन्ति।
उत्तरम् – मे बहूनि + अपत्यानि सन्ति ।

(छ) सर्वत्र जलोपप्लवः संजातः।
उत्तरम् – सर्वत्र जल + उपप्लवः संजातः।

प्रश्नः – 6. अधोलिखितेषु वाक्येषु रेखाङ्कितसर्वनामपदं कस्मै प्रयुक्तम्?

(क) सा च अवदत्—“भो वासव! भृशं दुःखिता अस्मि।”
उत्तरम् – धेनुमात्रे सुरभ्यै।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
उत्तरम् – धेनुमात्रे सुरभ्यै।

(ग) सः दीनः इति जानन्नपि कृषकः तम् पीडयति।
उत्तरम् – दुर्बलाय वृषभाय।

(घ) मे बहून्यपत्यानि सन्ति।
उत्तरम् – धेनुमात्रे सुरभ्यै।

(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तरम् – इन्द्राय ।

(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।
उत्तरम् – धेनुमात्रे सुरभ्यै।

प्रश्नः – 7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे विशेष्यपदम्। तयोः मेलनं कुरुत।

‘क’ स्तम्भ ‘ख’ स्तम्भ
(क) कश्चित् (i) वृषभम्
(ख) दुर्बलम् (ii) कृपा
(ग) क्रुद्धः (iii) कृषीवलः
(घ) सहस्राधिकेषु (iv) आखण्डलः
(ङ) अभ्यधिका (v) जननी
(च) विस्मितः (vi) पुत्रेषु
(छ) तुल्यवत्सला (vii) कृषकः

उत्तराणि –
‘क’ स्तम्भ ‘ख’ स्तम्भ
(क) कश्चित् (vii) कृषकः
(ख) दुर्बलम् (i) वृषभम्
(ग) क्रुद्धः (iii) कृषीवलः
(घ) सहस्राधिकेषु (vi) पुत्रेषु
(ङ) अभ्यधिका (ii) कृपा
(च) विस्मितः (iv) आखण्डलः
(छ) तुल्यवत्सला (v) जननी

▶ Videos in this lesson
1
Add videos via ACF

Comments

Leave a comment

Your email address will not be published. Required fields are marked *

🔒 This content is protected.