NCERT कक्षा-10, पाठ-5, “सुभाषितानि” का अभ्यास
Textbook Questions and Answers: · Lesson script
अभ्यास-कार्यम्
प्रश्नः – 1. एकपदेन उत्तरं लिखत –
(क) मनुष्याणां महान् रिपुः कः?
उत्तरम् – आलस्यम् ।
(ख) गुणी किं वेत्ति?
उत्तरम् – गुणम् ।
(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तरम् – महापुरुषाणाम् ।
(घ) पशुना अपि कीदृशः गृह्यते?
उत्तरम् – उदीरितोऽर्थः ।
(ङ) उदयसमये अस्तसमये च कः रक्तः भवति?
उत्तरम् – सविता ।
प्रश्नः – 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) केन समः बन्धुः नास्ति?
उत्तरम् – उद्यमसमः बन्धुः नास्ति।
(ख) वसन्तस्य गुणं कः जानाति?
उत्तरम् – वसन्तस्य गुणं पिकः जानाति।
(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तरम् – बुद्धयः परेगितज्ञानफलाः भवन्ति।
(घ) नराणां प्रथमः शत्रुः कः?
उत्तरम् – नराणां प्रथमः शत्रुः क्रोधः अस्ति।
(ङ) सुधियः सख्यं केन सह भवति?
उत्तरम् – सुधियः सख्यं सुधीभिः सह भवति।
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तरम् – अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।
प्रश्नः – 3. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत –
(क) यः …………… उद्दिश्य प्रकुप्यति तस्य …………… सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, …………… तं कथं परितोषयिष्यति?
उत्तरम् – यः निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति।
(ख) …………… संसारे खलु ………. निरर्थकम् नास्ति । अश्वः चेत् ……….. वीरः, खरः …………… वहने (वीरः) (भवति)।
उत्तरम् – विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः, खरः भारस्य वहने (वीरः) (भवति)।
प्रश्नः – 4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत –
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
(ग) परिश्रमं कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तरम् – अनुक्तमप्यूहति पण्डितोजनः।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
उत्तरम् – समान-शील-व्यसनेषु सख्यम्।
(ग) परिश्रमं कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।
उत्तरम् – नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तरम् – सम्पत्तौ च विपत्तौ च महतामेकरूपता।
प्रश्नः – 5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत –
(क) गुणी गुणं जानाति। (बहुवचने)
(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
(घ) कः छायां निवारयति। (कर्मवाच्ये)
(ङ) तेन एव वह्निनः दह्यते। (कर्तृवाच्ये)
(क) गुणी गुणं जानाति। (बहुवचने)
उत्तरम् – गुणिनः गुणं जानन्ति।
(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तरम् – पशुना उदीरितः अर्थः गृह्यते।
(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
उत्तरम् – मृगः मृगैः (मृगेण) सह अनुव्रजति।
(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तरम् – केन छाया निवार्यते?
(ङ) तेन एव वह्निः दह्यते। (कर्तृवाच्ये)
उत्तरम् – सः एव वह्निः शरीरं दहति।
प्रश्नः – 6. (अ) सन्धिं/सन्धिविच्छेदं कुरुत –
(क) न + अस्ति + उद्यमसमः = ………………….।
(ख) …………………. + …………………. = तस्यापगमे ।
(ग) अनुक्तम् + अपि + ऊहति = …………………. ।
(घ) …………………. + …………………. = गावश्च ।
(ङ) …………………. + …………………. = नास्ति ।
(च) रक्तः + च + अस्तमये = …………………. ।
(छ) …………………. + …………………. = योजकस्तत्र ।
उत्तराणि –
(क) न + अस्ति + उद्यमसमः = नास्त्युद्यसमो ।
(ख) तस्य + अपगमे = तस्यापगमे ।
(ग) अनुक्तम् + अपि + ऊहति = अनुक्तमप्यूहति ।
(घ) गावः + च = गावश्च ।
(ङ) न + अस्ति = नास्ति ।
(च) रक्तः + च + अस्तमये = रक्तश्चास्तमये ।
(छ) योजकः + तत्र = योजकस्तत्र ।
प्रश्नः – 6. (आ) समस्तपदं/विग्रहं लिखत –
(क) उद्यमसमः – …………….
(ख) शरीरे स्थितः – …………….
(ग) निर्बलः – …………….
(घ) देहस्य विनाशनाय – …………….
(ङ) महावृक्षः – …………….
(च) समानं शीलं व्यसनं येषां तेषु – …………….
(छ) अयोग्यः – …………….
उत्तराणि :-
(क) उद्यमसमः – उद्यमेन समः
(ख) शरीरे स्थितः – शरीरस्थः
(ग) निर्बलः – बलेन हीनः
(घ) देहस्य विनाशनाय – देहविनाशाय
(ङ) महावृक्षः – महान् च असौ वृक्षः
(च) समानं शीलं व्यसनं येषां तेषु – समानशीलव्यसनेषु
(छ) अयोग्यः – न योग्यः
प्रश्नः – 7. अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत
(क) प्रसीदति – …………
(ख) मूर्खः – …………
(ग) बली – …………
(घ) सुलभः – …………
(ङ) संपत्ती – …………
(च) अस्तमये – …………
(छ) सार्थकम् – …………
उत्तराणि :-
(क) प्रसीदति – अवसीदति
(ख) मूर्खः – पण्डितः
(ग) बली – निर्बलः
(घ) सुलभः – दुर्लभः
(ङ) संपत्तौ – विपत्तौ
(च) अस्तमये – उदये
(छ) सार्थकम् – निरर्थकम्
प्रश्नः – 7. (अ) संस्कृतेन वाक्यप्रयोगं कुरुत –
(क) वायसः ……………
(ख) निमित्तम् ……………
(ग) सूर्यः ……………
(घ) पिकः ……………
(ङ) वह्निः ……………
उत्तराणि :-
(क) वायसः – वायसः वृक्षे उपविष्टः अस्ति।
(ख) निमित्तम् – सः रोगस्य निमित्तम् औषधं सेवते।
(ग) सूर्यः – सूर्यः प्रातःकाले उदेति।
(घ) पिकः – पिकः मधुरं कूजति।
(ङ) वह्निः – वह्निः काष्ठानि दहति।
Comments