Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-10, पाठ-6, “सौहार्दं प्रकृतेः शोभा” का अभ्यास
Chapter 6

NCERT कक्षा-10, पाठ-6, “सौहार्दं प्रकृतेः शोभा” का अभ्यास

Lesson video
NCERT कक्षा-10, पाठ-6, “सौहार्दं प्रकृतेः शोभा” का अभ्यास
↗ Share

Textbook Questions and Answers: · Lesson script

सौहार्दं प्रकृतेः शोभा

अभ्यास-कार्यम्

प्रश्नः – 1. एकपदेन उत्तरं लिखत –

(क) वनराजः कैः दुरवस्था प्राप्तः?
उत्तरम् – तुच्छजीवैः।

(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तरम् – काकः।

(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तरम् – आदर्शः।

(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
उत्तरम् – गजः।

(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तरम् – वराकान् ।

प्रश्नः – 2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत –

(क) नि:संशयं कः कृतान्तः मन्यते?
उत्तरम् – यः अपरैः वित्रस्तान् पीड्यमानान् जन्तून् सदा न रक्षति पार्थिवरूपेण सः निसंशय कृतान्तः मन्यते।

(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तरम् – बकः शीतले जले बहुकाल पर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति।

(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
उत्तरम् – अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति यत् सर्वे जीवाः एव तस्याः सन्ततिः। कथं मिथः कलहं कुर्वन्ति। सर्वे जीवाः अन्योन्यश्रिताः सन्ति।

(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवे?
उत्तरम् – यदि राजा सम्यक् न भवति तदा राजा जलधौ अकर्णधारा नौरिव विप्लवेत्।

(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तरम् – मयूरः पिच्छान् उद्घाट्य नृत्यमुद्रायां स्थितः भवति।

(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तरम् – अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्पराः भवति।

(छ) अस्मिन्नाटके कति पात्राणि सन्ति?
उत्तरम् – अस्मिन् नाटके नव पात्राणि सन्ति।

प्रश्नः – 3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –

(क) सिंहः वानराभ्यां (स्वरक्षायाम्) असमर्थः एवासीत्।
उत्तरम् – सिंहः वानराभ्यां कस्याम् असमर्थः एवासीत्?

(ख) गजः वन्यपशून् तुदन्तं (शुण्डेन) पोथयित्वा मारयति।
उत्तरम् – गजः वन्यपशून् तुदन्तं केन पोथयित्वा मारयति?

(ग) वानरः आत्मानं (वनराजपदाय) योग्यः मन्यते।
उत्तरम् – वानरः आत्मानं कस्मै योग्यः मन्यते?

(घ) मयूरस्य नृत्यं (प्रकृतेः) आराधना।
उत्तरम् – मयूरस्य नृत्यं कस्याः आराधना?

(ङ) सर्वे (प्रकृतिमातरं) प्रणमन्ति।
उत्तरम् – सर्वे काम् प्रणमन्ति?

प्रश्नः – 4. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत –

(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
उत्तरम् – न ।

(ख) का-का इति बकस्य ध्वनिः भवति।
उत्तरम् – न ।

(ग) काकपिकयोः वर्णः कृष्णः भवति।
उत्तरम् – आम् ।

(घ) गजः लघुकायः, निर्बलः च भवति।
उत्तरम् – न ।

(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
उत्तरम् – आम् ।

(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
उत्तरम् – आम् ।

प्रश्नः – 5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत –
(स्थितप्रज्ञः, यथासमयम्, मेध्यामेध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः)

(क) काकः ………………… भवति।
(ख) …………………. परभृत् अपि कथ्यते।
(ग) बकः अविचल: ………………… इव तिष्ठति।
(घ) मयूरः ……… इति नाम्नाऽपि ज्ञायते।
(ङ) उलूकः ………. पदनिर्लिप्तः चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते …………………..।

उत्तराणि :-

(क) काकः मेध्यामध्यभक्षकः भवति।
(ख) पिकः परभृत् अपि कथ्यते।
(ग) बकः अविचलः स्थितप्रज्ञः इव तिष्ठति।
(घ) मयूरः अहिभुक् इति नाम्नाऽपि ज्ञायते।
(ङ) उलूकः आत्मश्लाघाहीनः पदनिर्लिप्तः चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते यथासमयम्।

प्रश्नः – 6. वाच्यपरिवर्तनं कृत्वा लिखत –

*उदाहरणम् – क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
उत्तरम् – क्रुद्धेन सिंहेन इतस्ततः धाव्यते गय॑ते च।

(क) त्वया सत्यं कथितम्।
उत्तरम् – त्वम् सत्यं कथयसि।

(ख) सिंहः सर्वजन्तून् पृच्छति।
उत्तरम् – सिंहेन सर्वजन्तवः पृच्छ्यन्ते।

(ग) काकः पिकस्य संततिं पालयति।
उत्तरम् – काकेन पिकस्य सन्ततिः पाल्यते।

(घ) मूयरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
उत्तरम् – मयूरं विधाता एव पक्षिराज वनराजं वा कृतवान् ।

(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।
उत्तरम् – सर्वे खगाः कम् अपि खगं वनराजं कर्तुम् इच्छन्ति स्म।

(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तरम् – सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियते।

प्रश्नः – 7. समासविग्रहं समस्तपदं वा लिखत –
(क) तुच्छजीवैः ………………।
(ख) वृक्षोपरि ………………।
(ग) पक्षिणां सम्राट् ………………।
(घ) स्थिता प्रज्ञा यस्य सः ………………।
(ङ) अपूर्वम् ………………।
(च) व्याघ्रचित्रका ………………।

उत्तराणि :-

(क) तुच्छजीवैः = तुच्छैः जीवैः। (तृतीया-तत्पुरुषः)
(ख) वृक्षोपरि = वृक्षस्य उपरि । (षष्ठी-तत्पुरुषः)
(ग) पक्षिणां सम्राट् = पक्षिसम्राट् । (षष्ठी-तत्पुरुषः)
(घ) स्थिता प्रज्ञा यस्य सः = स्थितप्रज्ञः । (बहुव्रीहिः)
(ङ) अपूर्वम् = न पूर्वम् । (नञ् -तत्पुरुषः)
(च) व्याघ्रचित्रका = व्याघ्रः च चित्रकः च । (द्वन्द्वः)

▶ Videos in this lesson
1
Add videos via ACF

Comments

Leave a comment

Your email address will not be published. Required fields are marked *

🔒 This content is protected.