NCERT कक्षा-10, पाठ-8, “सूक्तयः” का अभ्यास
Textbook Questions and Answers: · Lesson script
पाठ-8 = सूक्तयः
अभ्यास-कार्यम्
प्रश्नः – 1. एकपदेन उत्तरं लिखत –
(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तरम् – विद्याधनम् ।
(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तरम् – धर्मप्रदाम् ।
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तरम् – विद्वांसः ।
(घ) प्राणेभ्योऽपि कः रक्षणीयः?
उत्तरम् – सदाचारः।
(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
उत्तरम् – अहितम् ।
(च) वाचि किं भवेत्?
उत्तरम् – अवक्रता ।
प्रश्नः – 2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
यथा – (विमूढधीः) पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
उत्तरम् – कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते ?
(क) संसारे (विद्वांसः) ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तरम् – संसारे के ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(ख) जनकेन (सुताय) शैशवे विद्याधनं दीयते।
उत्तरम् – जनकेन कस्मै शैशवे विद्याधनं दीयते?
(ग) (तत्त्वार्थस्य) निर्णयः विवेकेन कर्तुं शक्यः।
उत्तरम् – कस्य निर्णयः विवेकेन कर्तुं शक्यः?
(घ) धैर्यवान् (लोके) परिभवं न प्राप्नोति ।
उत्तरम् – धैर्यवान् कुत्र परिभवं न प्राप्नोति?
(ङ) आत्मकल्याणम् इच्छन् नरः (परेषाम्) अनिष्टं न कुर्यात् ।
उत्तरम् – आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात्?
प्रश्नः – 3. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत –
(क) पिता ……………. बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः ……………. ।
उत्तरम् – पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः तत्कृतज्ञता।
(ख) येन ……………. यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ……………. भवेत्, सः……………. इति ……………. ।
उत्तरम् – येन केनापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेकः इति ईरितः।
(ग) य आत्मनः श्रेयः ……………. सुखानि च इच्छति, परेभ्यः अहितं ……………. कदापि च न ……………. ।
उत्तरम् – य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, परेभ्यः अहितं कर्म कदापि च न कुर्यात्।
प्रश्नः – 4. अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
क. श्लोक संख्या-3
यथा- सत्या मधुरा च वाणी का?
उत्तरम् – धर्मप्रदा ।
(क) धर्मप्रदां वाचं कः त्यजति? — …………
उत्तरम् – विमूढधीः ।
(ख) मूढः पुरुषः कां वाणीं वदति? — …………
उत्तरम् – परुषाम् ।
(ग) मन्दमतिः कीदृशं फलं खादति? — …………
उत्तरम् – अपक्वम् ।
ख. श्लोक संख्या-7
यथा- बुद्धिमान् नरः किम् इच्छति?
उत्तरम् – आत्मनः श्रेयः ।
(क) कियन्ति सुखानि इच्छति? …………
उत्तरम् – प्रभूतानि ।
(ख) सः कदापि किं न कुर्यात्? …………
उत्तरम् – अहितं कर्म ।
(ग) सः केभ्यः अहितं न कुर्यात्? …………
उत्तरम् – परेभ्यः ।
प्रश्नः – 5. मञ्जूषायाः तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथानानां समक्षं लिखत-
(क) विद्याधनं महत् ।
(ख) आचारः प्रथमो धर्मः ।
(ग) चित्ते वाचि च अवक्रता एव समत्वम् ।
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनप्रधानम्।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् ।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।
उत्तराणि :-
(क) विद्याधनं महत् ।
1. विद्याधनं सर्वधनप्रधानम् ।
2. विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् ।
(ख) आचारः प्रथमो धर्मः ।
1. आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ।
2. आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः ।
(ग) चित्ते वाचि च अवक्रता एव समत्वम् ।
1. मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ।
2. सं वो मनांसि जानताम् ।
प्रश्नः – 6. (अ) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत-
शब्दाः – विलोमशब्दाः
(क) पक्वः ……………. (परिपक्वः, अपक्व:, क्वथितः)
(ख) विमूढधीः ……………. (सुधीः, निधि:, मन्दधीः)
(ग) कातरः ……………. (अकरुणः, अधीरः, अकातरः)
(घ) कृतज्ञता ……………. (कृपणता, कृतघ्नता, कातरता)
(ङ) आलस्यम् ……………. (उद्विग्नता, विलासिता, उद्योगः)
(च) परुषा ……………. (पौरुषी, कोमला, कठोरा)
उत्तराणि :-
शब्दाः — विलोमशब्दाः
(क) पक्वः — अपक्वः
(ख) विमूढधीः — सुधीः
(ग) कातरः — अकातरः
(घ) कृतज्ञता — कृतघ्नता
(ङ) आलस्यम् — उद्योगः
(च) परुषा — कोमला
(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम् –
(क) प्रभूतम् …………… …………… ……………
(ख) श्रेयः …………… …………… ……………
(ग) चित्तम् …………… …………… ……………
(घ) सभा …………… …………… ……………
(ङ) चक्षुष् …………… …………… ……………
(च) मुखम् …………… …………… ……………
शब्द-मञ्जूषा
लोचनम् नेत्रम् भूरि
शुभम् परिषद् मानसम्
मनः सभा नयनम्
आननम् चेतः विपुलम्
संसद् बहु वक्त्रम्
वदनम् शिवम् कल्याणम्
उत्तराणि :-
(क) प्रभूतम् — भूरि, विपुलम्, बहु।
(ख) श्रेयः — शुभम्, कल्याणम्, शिवम् ।
(ग) चित्तम् — मनः, मानसम्, चेतः।
(घ) सभा — संसद्, समितिः, परिषद्।
(ङ) चक्षुष् — नयनम्, लोचनम्, नेत्रम्।
(च) मुखम् — वदनम्, आननम्, वक्त्रम्।
प्रश्नः – 7. अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम् –
विग्रहाः – समस्तपदम् – समासनाम
(क) तत्त्वार्थस्य निर्णयः — ………………….. = षष्ठी तत्पुरुषः
(ख) वाचि पटुः — ………………….. = सप्तमी तत्पुरुषः
(ग) धर्मं प्रददाति इति (ताम्) — ………………….. = उपपदतत्पुरुषः
(घ) न कातरः — ………………….. = नञ् तत्पुरुषः
(ङ) न हितम् — ………………….. = नञ् तत्पुरुषः
(च) महान् आत्मा येषाम् — ………………….. = बहुव्रीहिः
(छ) विमूढा धीः यस्य सः — ………………….. = बहुव्रीहिः
उत्तराणि :-
विग्रहाः – समस्तपदम् – समासनाम
(क) तत्त्वार्थस्य निर्णयः — तत्त्वार्थनिर्णयः = षष्ठी तत्पुरुषः
(ख) वाचि पटुः — वाक्पटुः = सप्तमी तत्पुरुषः
(ग) धर्मं प्रददाति इति (ताम्) — धर्मप्रदाम् = उपपदतत्पुरुषः
(घ) न कातरः — अकातरः = नञ् तत्पुरुषः
(ङ) न हितम् — अहितम् = नञ् तत्पुरुषः
(च) महान् आत्मा येषाम् — महात्मानः = बहुव्रीहिः
(छ) विमूढा धीः यस्य सः — विमूढधीः = बहुव्रीहिः
Comments