Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-9, पाठ-5, “भ्रान्तो बालः” का अभ्यास
Chapter 5

NCERT कक्षा-9, पाठ-5, “भ्रान्तो बालः” का अभ्यास

Lesson video
NCERT कक्षा-9, पाठ-5, “भ्रान्तो बालः” का अभ्यास
↗ Share

पाठ-लेखः · Lesson script

अभ्यास-कार्यम् :-

प्रश्नः - 1. एकपदेन उत्तरं लिखत।

(क) कः तन्द्रालुः भवति?
उत्तरम् :- बालकः।

(ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत्?
उत्तरम् :- उद्याने।

(ग) के मधुसङ्ग्रहव्यग्राः अभवन्?
उत्तरम् :- मधुकराः।

(घ) चटकः कया तृणशलाकादिकम् आददाति?
उत्तरम् :- चञ्च्वा।

(ङ) चटकः कस्य शाखायां नीडं रचयति?
उत्तरम् :- वटद्रुमस्य।

(च) बालकः कीदृशं श्वानं पश्यति?
उत्तरम् :- पलायमानम्।

(छ) श्वानः कीदृशे दिवसे पर्यटति?
उत्तरम् :- निदाघदिवसे।

प्रश्नः - 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।

(क) बालः कदा क्रीडितुम् अगच्छत्?
उत्तरम् :- बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।

(ख) बालस्य मित्राणि किमर्थं त्वरमाणानि अभवन्?
उत्तरम् :- बालस्य मित्राणि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणानि अभवन्।

(ग) मधुकरः बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?
उत्तरम् :- मधुसङ्ग्रहव्यग्रः मधुकरः बालकस्य आह्वानं तिरस्कृतवान्।

(घ) बालकः कीदृशं चटकम् अपश्यत्?
उत्तरम् :- बालकः चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्।

(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
उत्तरम् :- “एतत् शुष्कं तृणं त्यज, स्वादूनि भक्ष्यकवलानि ते दास्यामि।” इति बालकः चटकाय क्रीडनार्थं लोभं दत्तवान्।

(च) खिन्नः बालकः श्वानं किम् अकथयत्?
उत्तरम् :- खिन्नः बालकः श्वानम् अकथयत्— “अस्मिन् निदाघदिवसे किं पर्यटसि? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम्। अहम् अपि क्रीडासहायं त्वाम् एव अनुरूपं पश्यामि।”

(छ) भग्नमनोरथः बालः किम् अचिन्तयत्?
उत्तरम् :- भग्नमनोरथः बालः अचिन्तयत्— “अस्मिन् जगति प्रत्येकं स्वस्वकृत्ये निमग्नः भवति। कोऽपि वृथा कालक्षेपं न सहते। एतेभ्यः नमः यैः मे तन्द्रालुतायां कुत्सा समापादिता।”

प्रश्नः - 3. निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत।

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य ।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि ।।

उत्तरम् :- जिस स्वामी के घर में मेरा पुत्र के समान प्रेमपूर्वक पालन-पोषण होता है, उस स्वामी की रक्षा करना मेरा कर्तव्य है। अतः अपने स्वामी की रक्षा करने के कर्तव्य से मुझे तनिक भी विमुख नहीं होना चाहिए।

प्रश्नः - 4. “भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङ्ग्लभाषया वा लिखत।

उत्तरम् :- ‘भ्रान्तो बालः’ कथा में एक आलसी बालक का वर्णन है, जो विद्यालय जाने के बजाय खेलने के लिए उद्यान में चला जाता है। वहाँ वह मधुकर, चटक और श्वान को अपने साथ खेलने के लिए बुलाता है, परन्तु सभी अपने-अपने कार्यों में व्यस्त होने के कारण उसके साथ खेलने से मना कर देते हैं। इससे बालक को समझ आता है कि संसार में प्रत्येक व्यक्ति अपने कर्तव्य का पालन करता है और समय व्यर्थ नहीं गँवाता। वह आलस्य छोड़कर विद्यालय जाता है और परिश्रम करके जीवन में विद्वता, यश तथा सम्पत्ति प्राप्त करता है।

प्रश्नः - 5. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत।

(क) (स्वादूनि) भक्ष्यकवलानि ते दास्यामि।
उत्तरम् :- कीदृशानि भक्ष्यकवलानि ते दास्यामि?

(ख) चटकः (स्वकर्मणि) व्यग्रः आसीत्।
उत्तरम् :- चटकः कस्मिन् व्यग्रः आसीत्?

(ग) कुक्कुरः (मानुषाणां) मित्रम् अस्ति।
उत्तरम् :- कुक्कुरः केषां मित्रम् अस्ति?

(घ) सः (महतीं) वैदुषीं लब्धवान्।
उत्तरम् :- सः कीदृशीं वैदुषीं लब्धवान्?

(ङ) (रक्षानियोगकरणात्) मया न भ्रष्टव्यम् इति।
उत्तरम् :- कस्मात् मया न भ्रष्टव्यम् इति?

प्रश्नः - 6. “एतेभ्यः नमः” इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थीविभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।

उत्तरम् :-

देवेभ्यः नमः।
गणेशाय नमः।
मात्रे नमः।
पित्रे नमः।
शिवाय नमः।

प्रश्नः - 7. ‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत।

‘क’ स्तम्भ — समस्तपदानि ‘ख’ स्तम्भ — विग्रहः

(क) दृष्टिपथम् (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासाः (2) विद्यायाः व्यसनी
(ग) विद्याव्यसनी (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् (4) पुस्तकानां दासाः

उत्तरम् :-

(क) दृष्टिपथम् — दृष्टेः पन्थाः।
(ख) पुस्तकदासाः — पुस्तकानां दासाः।
(ग) विद्याव्यसनी — विद्यायाः व्यसनी।
(घ) पुष्पोद्यानम् — पुष्पाणाम् उद्यानम्।


प्रश्नः - 7 (आ)

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदं विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत।

क्रमः विशेषणम् विशेष्यम्

(क) खिन्नः बालः
(ख) पलायमानम् श्वानम्
(ग) प्रीतः बालकः
(घ) स्वादूनि भक्ष्यकवलानि
(ङ) त्वरमाणाः वयस्याः

उत्तरम् :-
विशेषणम् विशेष्यम्
(क) खिन्नः बालः
(ख) पलायमानम् श्वानम्
(ग) प्रीतः बालकः
(घ) स्वादूनि भक्ष्यकवलानि
(ङ) त्वरमाणाः वयस्याः
▶ Videos in this lesson
1
Add videos via ACF
🔒 This content is protected.