Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-9, पाठ-6, “लौहतुला” का अभ्यास
Chapter 6

NCERT कक्षा-9, पाठ-6, “लौहतुला” का अभ्यास

Lesson video
NCERT कक्षा-9, पाठ-6, “लौहतुला” का अभ्यास
↗ Share

पाठ-लेखः · Lesson script

अभ्यास-कार्यम् :-

प्रश्नः - 1. एकपदेन उत्तरं लिखत :-
(क) वणिक्पुत्रस्य किं नाम आसीत्?
उत्तरम् :- जीर्णधनः ।

(ख) तुला कैः भक्षिता आसीत्?
उत्तरम् :- मूषकैः ।

(ग) तुला कीदृशी आसीत् ?
उत्तरम् :- लौहघटिता ।

(घ) पुत्रः केन हृतः इति जीर्णधनः वदति ?
उत्तरम् :- श्येनेन ।

(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ ?
उत्तरम् :- राजकुलम् ।

प्रश्नः - 2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत

(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?
उत्तरम् :- देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् ‘यत्र स्ववीर्यतः भोगाः भुक्ताः तस्मिन् स्थाने यः विभवहीनः वसेत् सः पुरुषाधमः’ ।

(ख) स्वतुलां याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
उत्तरम् :- स्वतुलां याचमानं जीर्णधनं श्रेष्ठी अकथयत् ‘भोः! त्वदीया तुला मूषकैः भक्षिता’।

(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?
उत्तरम् :- जीर्णधनः गिरिगुहाद्वारं बृहच्छिलया आच्छाद्य गहमागतः।

(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
उत्तरम् :- स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनम् अवदत् -“नदी तटात् सः बालः श्येनेन हृतः”।

(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तरम् :- धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ“ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।

प्रश्नः - 3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत -

(क) (जीर्णधनः) विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
उत्तरम् :- कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ?

(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय (अभ्यागतेन) सह प्रस्थितः।
उत्तरम् :- श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?

(ग) वणिक् गिरिगुहां (बृहच्छिलया) आच्छादितवान् ।
उत्तरम् :- वणिक् गिरिगुहां कया आच्छादितवान् ?

(घ) सभ्यैः तौ परस्परं संबोध्य (तुला-शिशु-प्रदानेन) सन्तोषितौ।
उत्तरम् :- सभ्यैः तौ परस्परं संबोध्य केन सन्तोषितौ?

प्रश्नः - 4. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत -

उत्तरम् :- (क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
(ख) राजन्। यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकं हरेत् अत्र संशयः न।

प्रश्नः - 5. तत्पदं रेखाङ्कितं कुरुत यत्र -
(क) ल्यप् प्रत्ययः नास्ति।
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय
उत्तरम् :- लौहसहस्रस्य।

(ख) यत्र द्वितीया विभक्तिः नास्ति।
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्
उत्तरम् :- सत्त्वरम्।

(ग) यत्र षष्ठी विभक्तिः नास्ति।
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्
उत्तरम् :- स्ववीर्यतः।

प्रश्नः - 6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत -
(क) श्रेष्ठ्याह = ...................... + आह
(ख) ...................... = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + ......................
(घ) ...................... = यथा + इच्छया
(ङ) स्नानोपकरणम् = ...................... + उपकरणम्
(च) ...................... = स्नान + अर्थम्

उत्तरम् :-

(क) श्रेष्ठ्याह = श्रेष्ठी + आह
(ख) द्वावपि = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + उपार्जिता
(घ) यथेच्छया = यथा + इच्छया
(ङ) स्नानोपकरणम् = स्नान + उपकरणम्
(च) स्नानार्थम् = स्नान + अर्थम्

प्रश्नः - 7. समस्तपदं विग्रहं वा लिखत -
विग्रहः – समस्तपदम्
(क) स्नानस्य उपकरणम् = ...................... ।
(ख) ...................... = गिरिगुहायाम्।
(ग) धर्मस्य अधिकारी = ...................... ।
(घ) ...................... = विभवहीनाः।
उत्तरम् :-

विग्रहः – समस्तपदम्
(क) स्नानस्य उपकरणम् = स्नानोपकरणम्।
(ख) गिरेः गुहायाम् = गिरिगुहायाम्।
(ग) धर्मस्य अधिकारी = धर्माधिकारी।
(घ) विभवेन हीनाः = विभवहीनाः।

प्रश्नः - 8. यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत -
वणिक्पुत्रः, लौहतुला, वृत्तान्तं, श्रेष्ठिनं, गतः
स्नानार्थम्, अयाचत्, ज्ञात्वा, प्रत्यागतः, प्रदानम्।

उत्तरम् :- कथायाः सारांश संस्कृतभाषया :-
एकदा जीर्णधनः नाम वणिक्पुत्रः धनक्षयात् देशान्तरं गन्तुम् अचिन्तयत्। सः स्वस्य लौहतुलां श्रेष्ठिनः गृहे निक्षिप्य देशान्तरं गतवान्। पुनः स्वपुरम् आगत्य सः तुलां याचितवान्। श्रेष्ठी असत्यं कथयित्वा अवदत् यत् मूषकैः तुला भक्षिता। ततः जीर्णधनः श्रेष्ठिनः पुत्रं स्नानार्थं नीत्वा गिरिगुहायां प्रक्षिप्य तद्द्वारं शिलया आच्छादितवान्।
श्रेष्ठी पुत्रस्य विषये पृष्टवान्। जीर्णधनः अवदत् यत् श्येनः तं बालकं हृतवान्। तयोः विवादः राजकुलं गतः। धर्माधिकारिभिः सर्वं वृत्तान्तं ज्ञात्वा तुलां बालकं च परस्परं प्रदाप्य तौ सन्तोषितौ।
▶ Videos in this lesson
1
Add videos via ACF
🔒 This content is protected.