HBSE कक्षा-10, पाठ-1, “शुचिपर्यावरणम्” का अभ्यासClass 10 Lesson 1 shuchi paryavarnam ka abhyaas
Textbook Questions and Answers: · Lesson script
शुचिपर्यावरणम्
अभ्यास-कार्यम्
प्रश्नः – 1. एकपदेन उत्तरं लिखत-
(क) अत्र जीवितं कीदृशं जातम्?
उत्तरम् – दुर्वहम् ।
(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तरम् – कालायासचक्रम्।
(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तरम् – भक्ष्यम्।
(घ) अहं कस्मै जीवनं कामये?
उत्तरम् – मानवाय।
(ङ) केषां माला रमणीया?
उत्तरम् – ललितलतानाम्।
प्रश्नः – 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम् – महानगरे जीवनं दुर्वहं जातम् । एतस्मात् कारणात् कविः प्रकृतेः शरणम् इच्छति ।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तरम् – यानानां हि अनन्ताः पङ्क्तयः महानगरेषु सन्ति, अतः तत्र संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम् – अस्माकं पर्यावरणे वायुमण्डलम्, जलम्, भक्ष्यम्, धरातलं च सर्वं दूषितम् अस्ति।
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तरम् – कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम् – स्वस्थजीवनाय खगकुलकलरवगुञ्जिते, कुसुमावलि-समीरचालिते वातावरणे भ्रमणीयम्।
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम् – अन्तिमे पद्यांशे कवेः मानवानां जीवनाय कामना अस्ति।
प्रश्नः – 3. सन्धिं / सन्धिविच्छेदं कुरुत –
(क) प्रकृतिः + ……………. = प्रकृतिरेव
(ख) स्यात् + ……………. + ……………. = स्यान्नैव
(ग) ……………. + अनन्ताः = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति =…………….
(ङ) ……………. + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = …………….
(छ) धूमम् + मुञ्चति = …………….
उत्तराणि –
(क) प्रकृतिः + एव = प्रकृतिरेव
(ख) स्यात् + न + एव = स्यान्नैव
(ग) हि + अनन्ताः = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति
(ङ) अस्मात् + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = सञ्चरणम्
(छ) धूमम् + मुञ्चति = धूमं मुञ्चति
प्रश्नः – 4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत –
(भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः)
(क) इदानीं वायुमण्डलं _________ प्रदूषितमस्ति।
(ख) _________ जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिकवातावरणे क्षणं सञ्चरणम् _________ लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् _________ प्रकृतेः आराधना।
(ङ) _________ समयस्य सदुपयोगः करणीयः।
(च) भूकम्पितसमये _________ गमनमेव उचितं भवति।
(छ) _________ हरीतिमा _________ शुचिपर्यावरणम् ।
उत्तराणि –
(क) इदानीं वायुमण्डलं भृशम् प्रदूषितमस्ति ।
(ख) अत्र जीवनं दुर्वहम् अस्ति ।
(ग) प्राकृतिकवातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति ।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना ।
(ङ) सदा समयस्य सदुपयोगः करणीयः ।
(च) भूकम्पितसमये बहिः गमनमेव उचितं भवति ।
(छ) यत्र हरीतिमा तत्र शुचिपर्यावरणम् ।
प्रश्नः – 5 (अ) अधोलिखितपदानां पर्यायपदं लिखत –
क) सलिलम् = ……………………..
(ख) आम्रम् = ……………………..
(ग) वनम् = ……………………..
(घ) शरीरम् = ……………………..
(ङ) कुटिलम् = ……………………..
(च) पाषाणः = ……………………..
उत्तराणि –
(क) सलिलम् = जलम्
(ख) आम्रम् = रसालम्
(ग) वनम् = कान्तारम्
(घ) शरीरम् = तनुः
(ङ) कुटिलम् = वक्रम्
(च) पाषाणः = प्रस्तरः
प्रश्नः – 5 (आ) – अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत –
पदम् – विलोमपदम्
(क) सुकरम् – ………………. ।
(ख) दूषितम् – ………………. ।
(ग) गृह्णन्ती – ………………. ।
(घ) निर्मलम् – ………………. ।
(ङ) दानवाय – ………………. ।
(च) सान्ताः – ………………. ।
उत्तराणि –
(क) सुकरम् – दुर्वहम्
(ख) दूषितम् – निर्मलम्
(ग) गृह्णन्ती – मुञ्चति
(घ) निर्मलम् – दूषितम्
(ङ) दानवाय – मानवाय
(च) सान्ताः – ध्वानम्
प्रश्नः – 6. उदहारणमनुसृत्य पाठात् चित्वा समस्तपदानि समासनाम च लिखत –
विग्रहः समस्तपदम् समासः
मलेन सहितम् समलम् अव्ययीभावः
हरिताः च ये तरवः (तेषाम्) हरिततरूणाम् कर्मधारयः
ललिताः च याः लताः (तासाम्) ललितलतानाम् कर्मधारयः
नवा मालिका नवमालिका कर्मधारयः
धृतः सुखसन्देशः येन (तम्) धृतसुखसन्देशम् बहुव्रीहिः
कज्जलम् इव मलिनम् कज्जलमलिनम् कर्मधारयः
दुर्दान्तैः दशनैः दुर्दान्तदशनैः कर्मधारयः
प्रश्नः – 7. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) शकटीयानम् (कज्जलमलिनम्) धूमं मुञ्चति।
उत्तरम् – शकटीयानं कीदृशं धूमं मुञ्चति?
(ख) उद्याने (पक्षिणां) कलरवं चेतः प्रसादयति।
उत्तरम् – उद्याने केषां कलरवं चेतः प्रसादयति?
(ग) पाषाणीसभ्यतायां (लतातरुगुल्माः) प्रस्तरतले पिष्टाः सन्ति।
उत्तरम् – पाषाणीसभ्यतायां काः प्रस्तरतले पिष्टाः सन्ति?
(घ) (महानगरेषु) वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
उत्तरम् – कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति?
(ङ) (प्रकृत्याः) सन्निधौ वास्तविकं सुखं विद्यते।
उत्तरम् – कस्याः सन्निधौ वास्तविकं सुखं विद्यते?
Comments