Breaking News
📞 9711140252 ✉️ sanskritseekho8@gmail.com
|
f
Sanskrit Seekhoसंस्कृत सीखो Sign Up Login
Home / NCERT कक्षा-10, पाठ-7, “विचित्रः साक्षी” का अभ्यास
Chapter 7

NCERT कक्षा-10, पाठ-7, “विचित्रः साक्षी” का अभ्यास

Lesson video
NCERT कक्षा-10, पाठ-7, “विचित्रः साक्षी” का अभ्यास
↗ Share

Textbook Questions and Answers: · Lesson script

विचित्रः साक्षी

अभ्यास-कार्यम्

प्रश्नः – 1. एकपदेन उत्तरं लिखत-

(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?
उत्तरम् – विजने प्रदेशे ।

(ख) अतिथिः केन प्रबुद्धः?
उत्तरम् – चौरस्य पादध्वनिना ।

(ग) कृशकायः कः आसीत्?
उत्तरम् – अभियुक्तः ।

(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
उत्तरम् – आरक्षिणे ।

(ङ) कं निकषा मृतशरीरम् आसीत्?
उत्तरम् – राजमार्गम् ।

प्रश्नः – 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तरम् – निर्धनः जनः भूरि परिश्रम्य वित्तम् उपार्जितवान्।

(ख) जनः किमर्थं पदातिः गच्छति?
उत्तरम् – जनः अर्थकार्श्येन पदातिः गच्छति।

(ग) प्रसृते निशान्धकारे सः किम् अचिन्तयत्?
उत्तरम् – ‘प्रसृते निशान्धकारे विजने प्रदेशे पदयात्रा न शुभावहा’ इति सः अचिन्तयत्।

(घ) वस्तुतः चौरः कः आसीत्?
उत्तरम् – वस्तुतः चौरः आरक्षी एव आसीत्।

(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
उत्तरम् – जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान् “रे दुष्ट! त्वया अहं चोरितायाः मञ्जूषायाः ग्रहणात् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे।” इति।

(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तरम् – मतिवैभवशालिनः दुष्कराणि कार्याणि नीतियुक्तिं च समालम्ब्य लीलया एव साधयन्ति।

प्रश्नः – 3. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –

(क) (पुत्रं) द्रष्टुं सः प्रस्थितः।
उत्तरम् – कं द्रष्टुं सः प्रस्थितः?

(ख) करुणापरो गृही (तस्मै) आश्रयं प्रायच्छत् ।
उत्तरम् – करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?

(ग) (चौरस्य) पादध्वनिना अतिथिः प्रबुद्धः।
उत्तरम् – कस्य पादध्वनिना अतिथिः प्रबुद्धः?

(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
उत्तरम् – न्यायाधीशः कः आसीत्?

(ङ) स भारवेदनया क्रन्दति स्म।
उत्तरम् – सः कया क्रन्दति स्म?

(च) उभौ शवं चत्वरे स्थापितवन्तौ।
उत्तरम् – उभौ शवं कुत्र स्थापितवन्तौ?

प्रश्नः – 4. यथानिर्देशमुत्तरत –

(क) ‘आदेशं प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
उत्तरम् – उभौ ।

(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तरम् – अध्वनि ।

(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम् – निर्धनजनाय ।

(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
उत्तरम् – आदिष्टवान् ।

(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’- अत्र विशेष्यपदं किम्?
उत्तरम् – कर्माणि ।

प्रश्नः – 5. सन्धिं/सन्धिविच्छेदं च कुरुत –

(क) पदातिरेव – ………. + ………….. ।
(ख) निशान्धकारे – ………. + ………….. ।
(ग) अभि + आगतम् – ………….. ।
(घ) भोजन + अन्ते – ………….. ।
(ङ) चौरोऽयम् – ………. + ………….. ।
(च) गृह + अभ्यन्तरे – ………….. ।
(छ) लीलयैव – ………. + ………….. ।
(ज) यदुक्तम् – ………. + ………….. ।
(झ) प्रबुद्धः + अतिथिः – ………….. ।

उत्तराणि :-

(क) पदातिरेव – पदातिः + एव ।
(ख) निशान्धकारे – निशा + अन्धकारे ।
(ग) अभि + आगतम् – अभ्यागतम् ।
(घ) भोजन + अन्ते – भोजनान्ते ।
(ङ) चौरोऽयम् – चौरः + अयम् ।
(च) गृह + अभ्यन्तरे – गृहाभ्यन्तरे ।
(छ) लीलयैव – लीलया + एव ।
(ज) यदुक्तम् – यत् + उक्तम् ।
(झ) प्रबुद्धः + अतिथिः – प्रबुद्धोऽतिथिः ।

प्रश्नः – 6. अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत –

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्,
नियुक्तः, नीतवान्, निर्णेतुम्, आदिष्टवान्, समागत्य, मुदितः।

उत्तराणि :-

ल्यप् :- परिश्रम्य, विहाय, आदाय, समागत्य

क्त :- प्रस्थितः, प्रविष्टः, नियुक्तः, मुदितः

क्तवतु :- उपार्जितवान् , पृष्टवान् , नीतवान् , आदिष्टवान्

तुमुन् :- दापयितुम् , द्रष्टुम् , क्रोशितुम् , निर्णेतुम्

प्रश्नः – 7. (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत –

(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान् ।
उत्तरम् – ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।

(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत् ।
उत्तरम् – चौराः ग्रामे नियुक्ताः राजपुरुषाः आसन्।

(ग) कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
उत्तरम् – केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।

(घ) अन्येषुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
उत्तरम् – अन्येधुः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्तः।

प्रश्नः – 7. (आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

(क) सः ……………. निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पञ्चमी)
उत्तरम् – सः गृहात् निष्क्रम्य बहिरगच्छत् ।

(ख) गृहस्थः ……………. आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
उत्तरम् – गृहस्थः अतिथये आश्रयं प्रायच्छत् ।

(ग) तौ ……………. प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
उत्तरम् – तौ न्यायाधीशं प्रति प्रस्थितौ।

(घ) …………….. चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे। (इदम् शब्दे सप्तमी)
उत्तरम् – अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।

(ङ) चौरस्य ……………. प्रबुद्धः अतिथिः। (पादध्वनिशब्दे तृतीया)
उत्तरम् – चौरस्य पादध्वनिना प्रबुद्धः अतिथिः।

▶ Videos in this lesson
1
Add videos via ACF

Comments

Leave a comment

Your email address will not be published. Required fields are marked *

🔒 This content is protected.